Skip to main content
Nepal Flag
00:00:00 AM
Back to BlogGeneral

Swasti Vachan

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोदब्धासोऽ अपरीतासऽ उद्भिदः । देवा नो यथा सदमिद् वृधेऽ असन्न प्प्रायुवो रक्षितारो दिवे-दिवे ॥१॥ देवानाम् भद्रा...

Sswasti shanti30 Jul 20261 min read13 views

ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोदब्धासोऽ अपरीतासऽ उद्भिदः ।

देवा नो यथा सदमिद् वृधेऽ असन्न प्प्रायुवो रक्षितारो दिवे-दिवे ॥१॥

 

देवानाम् भद्रा सुमतिरृजूयतां देवानां ᳬ रातिरभि नो निवर्तताम् ।

देवाना  ᳬ सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥२॥

 

तान् पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।

अर्यमणं वरुण ᳬ सोममश्विना सरस्वती नः सुभगा मयस्करत् ॥३॥

 

तन्नो वातो मयो भुवातु भेषजं तन्माता पृथिवी तत्पिता द्यौः ।

तद् ग्रावाणः सोमसुतो मयोभुवस्तदश्विना शृणुतं धिष्ण्या युवम् ॥४॥

 

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् ।

पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥५॥

 

स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥६॥

 

पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः ।

अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह ॥७॥

 

भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥८॥

 

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।

पुत्रासो यत्र पितरो भवन्ति मा नो मध्यारीरिषत् आयुर्गन्तोः ॥९॥

 

अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।

विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥१०॥

 

पृथिवी शान्तिरन्तरिक्षं शान्तिर्द्यौः शान्तिर्दिशः शान्तिरवान्तरदिशाः ।

शान्तिरग्निः शान्तिर्वायुः शान्तिरादित्यः शान्तिश्चन्द्रमाः ।

शान्तिर्नक्षत्राणि शान्तिरापः शान्तिरोषधयः शान्तिर्वनस्पतयः ।

शान्तिर्गावः शान्तिरजाः शान्तिरश्वाः शान्तिः पुरुषः ।

शान्तिर्ब्रह्म शान्तिर्ब्राह्मणः ।

शान्तिरेव शान्तिः शान्तिर्मे अस्तु शान्तिः ॥११॥

ॐ शान्तिः शान्तिः शान्तिः ॥

#Swasti Vachan#Swasti shanti#Shanti Mantra
0 Comments

Comments (0)

Sign in to join the conversation

No comments yet — be the first!